Skip to main content

Essay 2020

Samskritam Essays 2020

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
गुरुवासरः आश्वयुजशुक्लद्वादशी (10-10-2019)蘿
✍प्रस्तावविषयः– गोपनीयता狼

लोके गोपनीया: विषयाः अपि बहवः भवन्ति ।सर्वेषां जीवने सुतार्यता भवेत् निगूढं जीवनं अस्माभिः न करणीयम्  तथापि समाजस्य वा व्यक्ते: कदाचित् देशस्य वा सुरक्षार्थं गोपनीयाः व्यपदेशाः अपि भवन्ति इति वयं जानीमः। आधुनिके तन्त्रविज्ञानविकसिते लोकेऽपि अन्तर्जालस्थानेषु अस्माकं व्यक्तिगतसुरक्षार्थं नैके मार्गाः आश्रणीयाः । Data security दत्तांशविवररक्षणं मुख्यं वर्तते। अन्तर्जाले विद्यमान- गूढांशानां दुरुपयोगाय बहवः अवैधरीत्या कार्यं कुर्वन्ति। कूटपदानि कूटसंख्याः अङ्गुलीरेखाः इत्यादयानां प्रयोगैः अन्तर्जाले गोपनीयताः कल्पिताः।सङ्गणकानां मध्ये सन्देशानां प्रेषणसमये संख्या-चिह्नयुक्तानां रहस्यपदावलीनां योजनपद्धतिः (encryption) मुख्या अस्ति। वित्तकोषाणां सैनिककार्याणां सर्वकारमुख्यविवरणानां रक्षणम् इतोऽपि दुष्करं विद्यते। अद्यत्वे व्यक्तीनां दूरवाण्याम् एकवारमात्रम् उपयोग्यं कूटसंख्यां (OTP) प्रेषयित्वा इतोऽपि सुरक्षितव्यवहारः आश्रयते वित्तकोषादिभिः संस्थाभिः।

रहस्यं कथं रक्षितुं शक्यते इति  सम्यक् विचारणीयम्। अद्यत्वे आगामीकालश्च एतादृशानां समस्यानां कालः इति तु स्पष्टमेव।।

–   सुनीशः


*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
शनिवासरः आश्वयुजशुक्लचतुर्दशी (12-10-2019)
✍प्रस्तावविषयः– वाक्संयमः狼

व्यवहारेण जायन्ते मित्राणि रिप्वस्तथा।।
वाक्संयमः सज्जनानां लक्षणम्। भारतीयतत्त्वपद्धत्यां मितभाषणस्य प्राधान्यं दृश्यते। वाग्मी सर्वत्र पूज्यो भवति। यस्य वाक्संयमो वर्तते स एव उत्तमः श्रोता अपि भवितुम् अर्हति । अल्पेनैव वाक्यैः अनेकान् अंशान् वक्तुं यस्य सामर्थ्यम् अस्ति स एव वाग्मी एतत्तु ज्ञानशक्त्याः प्रभावेण हि तत् साध्यम् । अन्याः यद्वदन्ति वाक्संयमी तत् श्रद्धया शृणोति यतः ज्ञानार्थं विशालभावोप्यावश्यकः इति स: जानाति। वस्तुतस्तु यः अन्यान् श्रोतुं न इच्छति तदेकं मनोवैकल्यमिति ब्रुवन्ति मनःशास्त्रकाराः।
महापुरुषाणां जीवचरितं पश्यामः तर्हि ज्ञातुं शक्नुमः ते उत्तमवक्तारः श्रोतारश्च आसन्। उद्धवाद् उपदेशं स्वीकृतः जगद्गुरुःभगवान् कृष्णः । स्वपुत्रात् कार्त्तिकेयात् ॐ कारस्य रहस्यं सश्रद्धं श्रुतवान् सर्वज्ञः शिवः। एवं रीत्या काव्येषु पुराणेषु च वाक्संयमस्य महत्वं दृश्यते ॥

– सुनीश:

______________________________________________________________________

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
बुधवासरः आश्वयुजकृष्णतृतीया (16-10-2019)
✍प्रस्तावविषयः– मुक्तस्वाध्यायपद्धतिः

पुरा विद्यार्जनाय विद्यार्थिनः गृहात् सुदूरं गच्छन्ति स्म। विद्यार्जनकाले छात्राणां कार्यं केवलम् अध्ययनम् एव नान्यत् किञ्चन तथैव ब्रह्मचारिणो भूत्वा योग्ये निश्चिते कालावधौ अध्ययनं कुर्वन्ति स्म । शिष्टजीवनं मुख्यतया गृहस्थाश्रमरूपेण स्वाध्यायकुटुम्बपोषणधार्मिककार्येषु संलग्नाः भूत्वा जीवन्ति। अद्यत्वे एषा न स्थितिः सद्यः काले विद्याभ्यासस्य मुख्यं लक्ष्यं तु वृत्तिप्राप्तिरेव पश्चात् वृत्त्याम् औन्नत्यं सम्पादायितुं पुनः पठनस्य अनुवर्तनं करणीयं भवति एवI भवतु नाम । एतादृशेषु जीवितसाहचर्चेषु महाविद्यालयं वा अन्यत्र वा गत्वा अनुवर्तनपठनं न शक्यं । आस्मिन् समये जनाः मुक्तस्वाध्यायपद्धत्याः साहाय्येन  पठन्ति।
देशे विद्याभ्यासः  सवेषां भवन्तु तेन उत्तमपौराणां निर्माणं देशस्य विकासश्च शक्यः इत्येवं चिन्तयित्वा सर्वकारेण आरब्धा इयं पद्धतिः । इदानीं नैकाः सर्वकलाशालाः मुक्तस्वाध्यायपद्धतीद्वारा पठनाय व्यवस्थां कल्पयन्ति।।

देशे उन्नतविद्याभ्यासरङ्गे अनया पद्धत्या बृहत् परिणामाः आनीताः । बिरुदे बिरुदानन्तर बिरुदक्षेत्रे च अनेका प्रविष्टाः तदनुगुणं तेषां जीवने परिष्कारो जातः ।

संस्कृतस्य प्रचारे अपि विदूरपठनक्रमस्य योगदानम् अस्ति। तथापि केषाञ्चन  पाठ्यक्रमाणां विषये नियमसाधुत्वं नास्ति इत्यनेन कदाचित्छात्राः वञ्चिताः अपि जाताः अत्र विशेषजागरूकता अनिवार्या । कदाचित् उद्योगे वा विदेशेषु च मुक्तस्वाध्यायपद्धतीछात्राणां कृते तावत्
पारिगणना नैव प्राप्ता इत्यापि वयं श्रुतवन्तः I समस्यानामपसरणाय सर्वकारपक्षत: इतोऽपि पुनः क्रमीकरणम् भवेत् ॥

_ सुनीश:
______________________________________________________________________

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
रविवासरः 16-02-2020 
✍प्रस्तावविषयः– लघुवृत्तिवान्

नित्योपजीवनार्थमात्रं यः सम्पादयति स एव लघुवृत्तिवान्। यद्धनं दिने कार्यानन्तरं प्राप्यते तद्धनं तस्मिन्नेव दिने  व्ययीकृत्य स्वस्य च कुटुम्बस्य च उदरपोषणादि अत्यावश्यककार्याणां पूरणे एव सः शक्तो भवति । भाविकालाय वा जीवनपरिष्काराय वा तेन नाधिकं धनं रक्षितुं शक्यते । वस्तुतस्तु एतादृशाः जना एव लोके अधिकाः सन्ति। तादृशाः जनाः सदा समाजस्य सर्वकारस्यापि परिगणनाम् अर्हन्ति । जाति-धार्मिक- इतरनूनपक्षाणाम् अपेक्षया आर्थिक परिरक्षार्हाः ते। तदानीमेव राष्ट्रपुरोगतिर्भवति । अन्नं वस्त्रम् आवासः विद्यार्जनम् इत्यादिषु मुख्यविषयेषु ते साहाय्यं प्राप्नुयुः। अस्माकं देशेऽपि निर्धनानां कृते नैकाः पद्धत्यः सन्ति । पद्धत्यः ताः भक्ष्यसुरक्षा आरोग्यसुरक्षा विद्याभ्याससुरक्षा  प्रवृत्तिकार्ये सुरक्षा इत्येवं रीत्या विभक्ताः भवन्ति । अनर्हाणां स्वार्थाय कदाचित् सर्वकारसहाय्यं गच्छति इत्यपि सत्यम् तथापि कार्ये सक्षमं नीतियुक्तं अधिकारवृन्दं एवं स्वकर्तव्ये जागरूकाः पौराः यदा भवन्ति तदा अस्य प्रयत्नस्य लक्ष्यम् सम्पूर्णतया साध्यम् भवतीति प्रत्याशा ।।

– सुनीशः

______________________________________________________________________

*परिश्रमस्य महिमा*

एकदा महानसात् बहिः भूमौ निपतितानि तण्डुलकणानि भगवता रमणमहर्षिणा अवलोकितानि । अनुक्षणं महात्मा स्वयमेव एकैकं धान्यं श्रद्धया स्वीकर्तुम् आरब्धवान् । एतत् आश्चर्यकार्यं दृष्ट्वा अनुचरेषु कश्चन विनयेन एवमपृच्छत् । हे भगवन् ! अस्माकं धान्यागारे प्रभूतं धान्यसञ्चयं वर्तते तर्हि एतेन स्वल्पेन किं प्रयोजनम् ? इति।
तत् श्रुत्वा महर्षि एवम् अवदत्।

भवन्तः केवलं तण्डुलकणानि एव पश्यन्तः सन्ति  तेषु अहं सूर्यस्य तेजोराशिं पश्यामि मेघनां प्रयत्नेन पतितान् जलबिन्दून् पश्यामि भूमातुः अनुग्रहं पश्यामि अनेकानां सूक्ष्मजन्तूनां सहयोगं पश्यामि सर्वेषामुपरि कृषकानां परिश्रमस्य महिमां पश्यामि अतः यदि भवन्तः एतानि धान्यानि न इच्छन्ति चेदपि भक्त्या स्वीकृत्य पक्षीणां कृते ददतु । मूल्यं परिश्रमस्य कदापि व्यर्थं न भवेत् ।।

ॐ नमो भगवते श्री रमणाय

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
रविवासरः 23-02-2020
✍प्रस्तावविषयः– स्वभावः

स्वस्य भावः स्वभावः । जन्तूनां जातेः तथा आवासव्यवस्थाया आधारेण विविधेषु साहचर्येषु तेषां प्रतिक्रिया एव स्वभावेति सामान्यतः वक्तुं शक्यते।

यद्यपि स्वभावो जन्म सम्बद्धः तथापि स्वभावविकासे
विविधाः जीवनांशाः निमित्तीभूताः भवन्ति। गृहवातावरणं मित्राणां सहवर्त्तित्वं विद्यार्थीजीवनं विद्यालयपरिस्थितिः एतादृशाः सर्वे व्यक्तेः स्वभावे स्वाधीनं कुर्वन्ति ।।

स्वभावो दुरतिक्रमः इति उच्यन्ते। कस्यापि स्वभावस्य परिवर्तनं दुष्करम् । उत्तमस्वभावपोषणाय बाल्यादारभ्य प्रयत्नः करणीयः। मनुष्याणां स्वभावः विशेषरूपेण अवगन्तुं कष्टमनुभूयते निजस्वरूपं संगोप्य व्याजरुपेण चरन्ति मनुजाः। तादृशाः तृणैरावृतकूपा इव भवन्ति। वचनेषु मनसि हृदि भावे प्रवृत्तौ च सत्यं स्वाभाविकं रूपं दर्शयन्ति सज्जनाः किञ्च तेन कदाचित् तादृशाः एव मनोहताः भवन्तीति विधिवैपरीत्यम् । कदाचित् कश्चन महापुरुषः एवमपृच्छत् वयं मलिनं वस्त्रं पात्रं गृहं एवञ्च मलिनं किमपि नेच्छामः किन्तु अस्माकं स्वभावस्य मालिन्यं विस्मरन्तः एव जीवामः किमिदम् आश्चर्यं न जनयति इति।
कुटुम्बे समाजे राष्ट्रे विश्वे च अस्माकं स्वभावस्य सद्प्रतिफलनं यथा दृश्येत तथा कार्यम् ।।

______________________________________________________________________

सत्तमः कः ?

एकस्मिन् ग्रामे एकः पण्डित आसीत्  आत्मानं भगवतः महाभक्तोऽहम् इति तस्य चिन्तनम् । तस्मिन्नेव ग्रामे एकः चर्मकारोऽपि आसीत् । सः नित्योपजीवनार्थम् आदिनं कार्यमग्नो भवति स्म।
अथैकदा पण्डितः देवदर्शनाय गच्छन् आसीत्। मार्गे तस्य पादरक्षा भग्ना जाता पादरक्षासमीकरणाय पण्डितः चर्मकारस्य कुटीरस्य समीपं गत्वा आज्ञाभावेन एवम्

” रे  शीघ्रं मम पादरक्षां सम्यक् कुरु ।”

एतत् श्रुत्वा चर्मकार अनुक्षणं कार्यम् आरब्धवान् । यदा सः कार्यं कुर्वन् आसीत् तदा पण्डितः तम् एवमपृच्छत् ।

” किं त्वं मन्दिरं न गच्छसि अपि भगवति ईषद् भक्तिरपि नास्ति तव ? “

एतत् श्रुत्वा सः विनयेन उत्तरं दत्तवान्

“श्रीमन् ! अहम् आदिनं श्रमं कृत्वैव कुटुम्बं पालयामि मन्दिरदर्शनाय मम समयः कुतः? ” इति

एतत् श्रुत्वा पण्डितः किञ्चित् उपहासभावेन स्थितवान् तावता चर्मकारः दोषनिवारणं कृत्वा पादरक्षां तस्य पुरतः स्थापितवान् ।

” कीयत् धनं दास्यामि ? ” इति पण्डित अपृच्छत् ।

तदा चर्मकारुण एवमुक्तम्

” श्रीमन् ! किमपि नेच्छामि यतो भवान् भगवतः परिपूर्णभक्त एवञ्च जानाम्यहम् अधुना मन्दिरं प्रति गच्छन् अस्तीति यदि शक्यते तर्हि मम कृते एकम् उपकारं करोतु तेन अलम् “।

” क उपकारः ?  त्वरितं वद “

इति पण्डितः आदिशत् ।

तदा स्वकीयविदीर्णात् स्यूतात् नाणकानि स्वीकुर्वन्  सः पण्डितम् एवमवोचत्

” मन्दिरे समर्पणाय एतानि मया कष्टेन संगृहीतानि किन्तु गन्तुम् अवसरो नास्ति कृपया भवानेव स्वल्पमिदं तत्र समर्पयतु ”  इति।

तावदल्पं धनं दृष्ट्वा पण्डितस्य मनसि तस्योपरि अवज्ञा भावः उत्पन्नः ‌तथापि आत्मानं परमभक्त इति मन्यमानः सः तद्धनं स्वीकृत्य हसन् गतवान् ।।

मन्दिरं प्राप्य यदा पण्डितः धनं क्षिप्तुम् उद्युक्तः तदा भगवान् स्वयमेव आगत्य हस्तद्वयेन धनं गृहीत्वा तस्मै चर्मकराय दातुं हस्तात् सुवर्णकङ्कणमेकं निष्कास्य दत्त्वा अन्तर्धानमकरोत्।

एतेन पण्डितः परमविस्मितः  ईर्ष्यायुक्तश्च जातः सः साधारणः अज्ञानी चर्मकारः सर्वथा एतत् कङ्कणार्हः नास्तीति स्वयं निर्णयन् सः गृहं गत्वा पत्न्यै कङ्कणं दत्तवान्।।

चतुरा तस्य भार्या  कङ्कणं क्षिप्रं राज्ञे समर्प्य पारितोषिकरूपेण धनं स्वीकृत्य आगच्छतु इति पतिम् उक्तवती अन्यथा राजभटाः कदाचित् आगत्य अवैधरित्या सम्पादितं सुवर्णम् इत्युक्त्वा नयन्तीति तस्याः भयम् आसीत्। वास्तवं वास्तवम् इति वदन् पत्नीं प्रशंसयन् पण्डितः राजभवनं गत्वा राज्ञे कङ्कणम् समर्पितवान् । राज्ञीप्रसादतत्परः राजा तत् स्वीकृत्य अन्तः पुरं गतवान् ।।

” कङ्कणं सदैव युगलं भवति। सः पुरुषः भवन्तं वञ्चयित्वा पारितोषिकं स्वीकर्तुम् एव आगतवान् ” – इति लोभिनी राज्ञी अवोचत् ।

हा हन्त ! एतत् श्रुत्वा राजा सिंहः इव गर्जयन् अपरम् अपि कङ्कणं सूर्यास्तमनात्पूर्वम् आनेतुम् पण्डिताय उग्रादेशं दत्तवान् ।।

प्राणापायभीतः सन् पण्डितः चर्मकारस्य कुटीरं धावित्वा तस्य पादतले दण्डवत् पतितवान् । अश्रूणि मुञ्चन् आर्त्तस्वरेण प्रवृत्तं सर्वं चर्मकारस्य पुरतः उक्तवान् च ।
पूर्वापरबन्धं विना तत्सर्वं श्रुत्वा विस्मितः सः चर्मकारः अर्धनिद्राजागरितः इव अस्पष्टताकारणात्  भवन्तं ‌रक्षयितुं मया किं करणीयम् ? इति पण्डितं पृष्टवान् ।  ‌भवतः स्यूते अवशिष्टानि कानिचन नाणकानि दत्त्वा मां मन्दिरं प्रति सद्यः एव  प्रेषयतु इति पण्डितः प्रोक्तवान् ।

तथैव इत्युक्त्वा दीनानुकम्पया भगवन्तं हृदि स्मरन् नाणकानि स्वीकर्तुं चर्मकारः स्यूतं हस्तेन उद्घाटिवान् ।

अहो !! महदाश्चर्यं !! तस्मिन्नेव स्यूते अनुरूपम् अपरं कङ्कणं ताभ्यां दृष्टम् ।
कालपाशात् मुक्तिं प्राप्नुवन् दीर्घं निश्श्वसन्
पण्डितः चर्मकारं पृष्टवान्

” भोः ! कथं मन्दिरस्थस्य भगवतः हस्ते विद्यमानम् अपरं कङ्कणं भवतः स्यूते आगतम् “

इति ।

एतत् श्रुत्वा विनयेन चर्मकारः पण्डितम् अवोचत्

” महात्मन् ! मन्दिरं कुत्र  कङ्कणं कुत्र कथम् अपरं कङ्कणम् अत्रागतम् एतत् सर्वम् अहम् न जानामि एव परम् एकमेव जानामि यद्भगवान् मम हृदये अस्तीति “।

कङ्कणं यच्छन् अनुक्षणमेव चर्मकारः कार्यमग्नः सञ्जातः तदैव स्वकीयम् अज्ञानं ज्ञात्वा लज्जया पण्डितः ततः निर्गतः।।

…………………………………………

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
️रविवासरः 29-03-2020
✍प्रस्तावविषयः– गृहनिर्बन्धः

समग्रे विश्वे जनजीवनम् अधुना कोरोणारोगाणोः कारणेन दुष्करं जातम्। भारते अपि कोरोणायाः प्रवेशो जातः। विदेशसम्बद्धात् जनाः रोगं प्राप्तवन्तः। रोगाणोः वाहका मनुष्या एव इति अस्य रोगस्य वैशिष्ट्यम् । रोगग्रस्तानां समीप्याद् अन्येषामपि दुस्थितिर्भवति इत्यनेन त्वरितवेगेन अस्य वर्धनं भवितुम् अर्हति।
सामाजिकान्तरालपालनं व्यक्तेः शुचीत्वम् अत्र मुख्यं रोगव्याप्तिनिरोधनाय इति अस्मिन् क्षेत्रेषु प्रवर्तमानाः प्रमुखाः वदन्ति।।

दुरभिमानी अयं रोगाणु आमन्त्रणं विना कस्यापि गृहं न प्रविशति। अतः रोगाणो आह्वानं अस्माभिः स्वयमेव न कर्तव्यम् । सामूहिकव्यापनम् इति अस्याः रोगावस्थायाः भयानकं स्तरं निरोधुं भारतसर्वकारेण  Lockdown गृहनिर्बन्धः
उद्घोषितः । एकविंशतिदिनात्मकः गृहनिर्बन्धेन एतदेव लक्ष्यं करोति यद् जनाः वृथा बहिर्गत्वा रोगग्रस्ताः न भवेयुः।रोगीणां सम्पर्कात्  रोगाणोः सान्निध्यं विविधानां वस्तूनाम् उपरि  भवति अतः सर्वदा श्रद्धया भाव्यम्। सर्वे जनाः नियमस्यास्य पालनम् अवश्यं करणीयं नोचेत् सम्पूर्णतया रोगनिरोधनम् अशक्यं भवति। अयमेव अवसरः यः कोपि केवलं गृहे उपविश्य देशसेवां कर्तुं शक्यते। अतः बहिः न गच्छामः गृहे एव तिष्ठामः अन्यान् बोधयाम।।

।। सर्वे सन्तु निरामयाः ।।

…………………………………………………………….

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🔥रविवासरः 05-04-2020🌞
✍प्रस्तावविषयः– दीपप्रज्वलनम् 💥

दीपज्वालनम् अस्माकं नित्यानुष्ठानम् । गेहे गेहे प्रभाते प्रदोषे च सकलदेवानां प्रीत्यर्थं सनातनधर्मानुचराणां दीपाराधनं प्रचलन्त्येव । दीपाः सकलदेवमयाः अग्निः निखिलवेदतत्ववाहकश्च। मध्याह्नार्कभायाम् अपि दीपैर्विना अनुष्ठानपद्धतिर्नास्ति । मङ्गलमयी दीपकान्तिः तापशोकभयरोगनाशनाय भवतीति अस्माकं देशविचारः । सङ्कल्पे शक्तिः सङ्कल्पे सिद्धिः इत्येव खलु। काल आगतः राष्ट्राय विश्वाय सकलजनहिताय सङ्कल्पयुतदीपज्वानाय। अस्माकं प्रधानमन्त्रिणःनिर्देशानुगुणं विश्वकण्टकरोगात् मुक्त्यै जगत्कल्याणाय समभावनायै च ऐप्रल् पञ्चमदिनाङ्के रात्रौ नववादने गृहे दीपान् ज्वालयामः। आशास्य च शुभं कार्य्यमुद्दिश्य च मनोगतम् इत्यादीनि आर्षवाक्यानि स्मारं स्मारं राष्ट्रहितकल्पितचित्तेन वयं प्रतीक्षादीपान् ज्वालयाम । भूयोपि कोटिकोटिदीपानां प्रकाशे निमज्जितोऽयं देशः भारतम् इति नाम्नः सार्थकतां जगतः पुरतः दर्शयेत् तथा कार्यम् अस्माभिः। अस्यां प्रभायां सकलानां समस्यानां निष्प्रभत्वं एवञ्च जनाः सुशान्ताः निरामयाश्च भवेयुरिति आशास्महे ।।


विषयः जननी

अस्य प्रपञ्चस्य उत्पत्तेः कारणम् जगद् जननी महादेवी
तस्या अनुग्रहेण भूमातु आविर्भावः। भूदेव्या अनुग्रहेण भारतमातुरुत्पत्तिः ।तत अस्य जन्मनः कारणभूता अस्माकं जननी एवं चेत् सर्वत्र मातुः कृपा एव दृश्यते ।

मान्यते पूज्यते या सा माता इति

मातृदेवो भव पितृदेवो भव आचार्यदेवो भव

इत्येतेषु वैदिकवाक्येषु मातृसम्बद्धवाक्यमेव प्रथमं दृश्यते।

नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते।

अतः मातृऋणम् प्रत्यर्पणं केनापि अशक्यम्

तर्हि किं ‌कर्तुं शक्नुमः

तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसापि वा
एवं कूर्मपुराणम् बोधयति

दूरस्थानां सन्ततीनाम् अपि मनोव्यथां ज्ञातुं माता एव शक्नोति न तु पिता ।

मातृत्वभावः प्रकृतेः भावः अयं भावः समस्तजन्तुषु वर्तते अपि।

सुषुप्तौ अपि सन्ततीनां चलनं सा अनुभवति । नवजातशिशोः वेदना बुभुक्षा निद्रा एवं प्रकारेण सकलमपि जननी एव ज्ञातुं शक्नोति ।

मातृदेहात् गर्भावस्थायां या नाडी बन्धिता आसीत् सा नाडी आजीवनं जनन्या अदृश्यरूपेण रक्षिता इव दृश्यते।

आस्तां तावदियं प्रसूति समये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमपि शय्या च सांवत्सरि।
एकस्यापि न गर्भभार-भरण क्लेशस्य यस्याक्षमो
दातुं निष्कृतिमुन्नतोऽपि तनयः तस्यै जनन्यै नमः।।


स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🎤रविवासरः 12-04-2020🎶
✍प्रस्तावविषयः– संस्कृते गानम् 🎼

संस्कृतं रागात्मकम् । संगीतं सामवेदाद् अस्तीति जानीमः। अत अनादिकालादेव भाषायां गीतानि रचितानि सन्ति। विविधानां छन्दानां प्रयोगेण पूर्वजा मन्त्रान् काव्यानि पुरैव रचितवन्तः । तेषां गायनपद्धतिरपि विभिन्ना इति जानीमः। गीतरूपेण यद्किमपि हृदिस्थं कुर्मः तत् मनसि स्थिरं भवति अनेनैव कारणेन संस्कृते पद्यानां बाहुल्यं दृश्यते।।

आधुनिके युगे अपि संस्कृते कवयः वर्तन्ते । तेषाम् अभिरुचिरपि भिन्ना स्यात् केचन राष्ट्रगीतानि रचयन्ति केचन शिशुगीतानि केचन देवानां वा संस्कृतस्यैव वा महिमानं वर्णयन्तः गीतानि रचयन्ति।।

दूरदर्शने संस्कृतस्य प्रचाराय चलनचित्रगीतानाम् अनुवादनस्पर्धा प्रचलति। सद्यः काले नैके जनाः सोत्साहं भागं गृहीत्वा सम्यक्तया गीतानुवादं कुर्वन्ति। संस्कृतस्य पदसम्पत्तेः कारणात् मूलगीतस्य यः भावः अस्ति तदनुरीत्या तस्मात् चारुरीत्या वा संस्कृतेन पुनराविष्कारः शक्यः।
भाषाप्रसाराय प्रेरकजनकानि गीतानि शक्तिदायकानि भवन्ति। संस्कृतभारत्याः वर्गेषु तादृशानां गीतानाम् उपयोगः बहुधा क्रियते।
श्री जनार्दन हेगडे महोदयः
श्री मञ्जुनाथशर्मा
श्री महाबलेश्वर भट्टः
श्री दो. प्रभाकरशर्मा
श्री नारायणभट्टः
श्री वासुदेव द्विवेदी शास्त्री एवं प्रकारेणेन नैके कवयः नैकानि गीतानि रचितवन्तः।
गीतसंस्कृतं गेयसंस्कृतम् इति पुस्तकद्वयं संस्कृतभारत्या प्रकाशितमस्ति तयोः पुस्तकयोः मनोरञ्जकानि गीतानि सन्ति। यूट्यूब् सदृशानां नव्यमाध्यमानां उपयोगेन गीतानि आस्वादयन्ति जनाः ‌।।

साम्प्रतं श्री जनार्दनहेगडे महोदयेन रचितम् इदं गीतं स्मर्यते।।

प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकम्

श्रावयन् जागरय लोकं

निश्चलं जडतावृतम्


*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 

👦🏽रविवासरः 19-04-2020👦🏻

✍प्रस्तावविषयः-- नवयुवकः (Teen age boy)👦



प्रायेण १३ तः १९ वयोपरिमिताः   जनाः नवयुवकाः नवयुवत्यश्चेति उच्यन्ते। बाल्य-युवावस्थयोः मध्ये भवति अयं कालघट्टः।


व्यक्तेः जीवने महत्वपूर्णेऽयं समयः  यतः विद्यालयजीवनद्वारा

स्वभावरुपीकरणस्य समाजिकवीक्षणस्य मुख्यः कालः ।

एष एव कालः कदाचित् आपत्करो जायते तत्र कारणं ते शारीरिकवर्धनं त्वरितं प्राप्नुवन्ति किन्तु तदनुसारेण तेषां जीवानुभवाः न भवेयुः एतेनैव कारणेन कदाचित् अस्मिन् वयसि अनुमत्तमेषु कार्येषु श्रद्धां दद्युः ते। अस्मिन् विषये पोषकाः गुरवः ज्येष्ठाश्च तेषां मार्गदर्शनं कुर्युः ।।


एतादृशानां मनसि सदा नूतनविषयानाम् उपरि तीव्रजिज्ञासा भवति। अयमेव शरीरिकमानसिकवर्धनस्य समयः अतः तेषां कृते पोषकाहारस्य उत्तमबोधन्यस्य च आवश्यकता अस्ति। प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवत् आचरेत् इत्येव खलु अतः समचित्तभावेन ज्येष्ठाः नवयुवकेभ्य जीवनत्त्वानि बोधयेयुः ।मूल्याधिष्ठितानां युवजनानां हस्ते भवति राष्टपुरोगतिः।।





Comments

Popular posts from this blog

हास्यकणिकाः

*विवाहालोचनम्* कन्यायाः दर्शनानन्तरं युवकः परिवारसमतं गृहं प्रत्यागच्छति स्म ।मार्गे एव कन्यागृहात् इमं विवाहं नेच्छाम इति सूचना प्राप्ता । युवकस्य माता - रे  पूर्वपरिचितौ किल युवाम् ? निमिषद्वयमेव अद्य  सम्भाषणं जातम्। किमुक्तं  त्वया ? अनुचितं किमपि ...... ? नैव अम्ब! प्रकोष्ठे तस्याः पितुः चित्रं भित्तौ आसीत्  सैनिकवेषे तं दृष्ट्वा पिता सेनाकार्यं  देशे कुत्र कुत्र कृतवान् इत्येव पृष्टवान् नान्यथा।।  _अत्रान्तरे कन्यागृहे तस्याः  पिता_  किमर्थम् अस्ययोग्यता नास्तीति उक्तवती त्वम्। पितः!  अद्यैव ज्ञातवती सः मूर्खशिरोमणिः इति सुभाषचन्द्रबोस् महाशयमपि न जानाति सः !!  *द्विशतं कुतः*   _विवाहस्य अग्रिमे दिने  पतिः पत्नीं प्रति।_  विद्यालये  महाविद्यालये वा भवत्याः कृते कामुकः आसीत् किम् ? एतत् श्रुत्वा सा अन्तः गत्वा एकं वेष्टनं (envelope) आनीय उक्तवती यदा अहम्  कामुकं प्राप्नोमि स्म तदा अस्मिन् एकं तण्डुलकणं निक्षिपामि स्म ।। सः झटिति गणनां कृत्वा ..... चिन्ता मास्तु केवलाः पञ्चतण्डुलकणाः एव तत्सर्वं स्वाभावि...

संस्कृताभ्यासाः

*संस्कृताभ्यासः दिनम्-२*  Everyone try to do this ... ____________________  *1. रिक्तस्थानानि  सः/ सा/ तत् उचितरूपेण पूरयतु।( Fill in the blanks with सः/ सा/ तत्).*    १. -------पुरुषः।    २.------नौका ।    ३.-------नदी  ।    ४.-------पत्रम् ।     ५.------चटकः ।  *2. रिक्तस्थानानि पूरयतु।( एषः/एषा/एतत्)*     १.____ मयूरः ।    २.____वाहनम्।     ३.____बाला  ।     ४.____द्वारम्  ।     ५._____वृद्धा  ।  *3. उचित रुपं चित्वा लिखतु।(कः/ का/ किम्)*      १. ____अध्यापिका?     २. ____उद्यानम् ?     ३. ____विद्यालय?     ४. ____यानम्?      ५. ____लेखनी?  *4.  संस्कृत पदानि लिखतु (Write the  sanskritham word)*     १.  Shelf  २. Telephone    ३.  Scissor ४. Mirror    ५. Window  *5.एतानि पदानि उपयुज्य वाक्यानि लिखतु।( Write se...