Skip to main content

Posts

संस्कृताभ्यासाः

*संस्कृताभ्यासः दिनम्-२*  Everyone try to do this ... ____________________  *1. रिक्तस्थानानि  सः/ सा/ तत् उचितरूपेण पूरयतु।( Fill in the blanks with सः/ सा/ तत्).*    १. -------पुरुषः।    २.------नौका ।    ३.-------नदी  ।    ४.-------पत्रम् ।     ५.------चटकः ।  *2. रिक्तस्थानानि पूरयतु।( एषः/एषा/एतत्)*     १.____ मयूरः ।    २.____वाहनम्।     ३.____बाला  ।     ४.____द्वारम्  ।     ५._____वृद्धा  ।  *3. उचित रुपं चित्वा लिखतु।(कः/ का/ किम्)*      १. ____अध्यापिका?     २. ____उद्यानम् ?     ३. ____विद्यालय?     ४. ____यानम्?      ५. ____लेखनी?  *4.  संस्कृत पदानि लिखतु (Write the  sanskritham word)*     १.  Shelf  २. Telephone    ३.  Scissor ४. Mirror    ५. Window  *5.एतानि पदानि उपयुज्य वाक्यानि लिखतु।( Write se...
Recent posts

हास्यकणिकाः

*विवाहालोचनम्* कन्यायाः दर्शनानन्तरं युवकः परिवारसमतं गृहं प्रत्यागच्छति स्म ।मार्गे एव कन्यागृहात् इमं विवाहं नेच्छाम इति सूचना प्राप्ता । युवकस्य माता - रे  पूर्वपरिचितौ किल युवाम् ? निमिषद्वयमेव अद्य  सम्भाषणं जातम्। किमुक्तं  त्वया ? अनुचितं किमपि ...... ? नैव अम्ब! प्रकोष्ठे तस्याः पितुः चित्रं भित्तौ आसीत्  सैनिकवेषे तं दृष्ट्वा पिता सेनाकार्यं  देशे कुत्र कुत्र कृतवान् इत्येव पृष्टवान् नान्यथा।।  _अत्रान्तरे कन्यागृहे तस्याः  पिता_  किमर्थम् अस्ययोग्यता नास्तीति उक्तवती त्वम्। पितः!  अद्यैव ज्ञातवती सः मूर्खशिरोमणिः इति सुभाषचन्द्रबोस् महाशयमपि न जानाति सः !!  *द्विशतं कुतः*   _विवाहस्य अग्रिमे दिने  पतिः पत्नीं प्रति।_  विद्यालये  महाविद्यालये वा भवत्याः कृते कामुकः आसीत् किम् ? एतत् श्रुत्वा सा अन्तः गत्वा एकं वेष्टनं (envelope) आनीय उक्तवती यदा अहम्  कामुकं प्राप्नोमि स्म तदा अस्मिन् एकं तण्डुलकणं निक्षिपामि स्म ।। सः झटिति गणनां कृत्वा ..... चिन्ता मास्तु केवलाः पञ्चतण्डुलकणाः एव तत्सर्वं स्वाभावि...

Essay 2020

Samskritam Essays 2020 *स्वर्वाणीप्रकाशः* (वाट्साप् गणः) गुरुवासरः आश्वयुजशुक्लद्वादशी  (10-10-2019 )蘿 ✍प्रस्तावविषयः– गोपनीयता狼 लोके गोपनीया: विषयाः अपि बहवः भवन्ति ।सर्वेषां जीवने सुतार्यता भवेत् निगूढं जीवनं अस्माभिः न करणीयम्  तथापि समाजस्य वा व्यक्ते: कदाचित् देशस्य वा सुरक्षार्थं गोपनीयाः व्यपदेशाः अपि भवन्ति इति वयं जानीमः। आधुनिके तन्त्रविज्ञानविकसिते लोकेऽपि अन्तर्जालस्थानेषु अस्माकं व्यक्तिगतसुरक्षार्थं नैके मार्गाः आश्रणीयाः । Data security दत्तांशविवररक्षणं मुख्यं वर्तते। अन्तर्जाले विद्यमान- गूढांशानां दुरुपयोगाय बहवः अवैधरीत्या कार्यं कुर्वन्ति। कूटपदानि कूटसंख्याः अङ्गुलीरेखाः इत्यादयानां प्रयोगैः अन्तर्जाले गोपनीयताः कल्पिताः।सङ्गणकानां मध्ये सन्देशानां प्रेषणसमये संख्या-चिह्नयुक्तानां रहस्यपदावलीनां योजनपद्धतिः (encryption) मुख्या अस्ति। वित्तकोषाणां सैनिककार्याणां सर्वकारमुख्यविवरणानां रक्षणम् इतोऽपि दुष्करं विद्यते। अद्यत्वे व्यक्तीनां दूरवाण्याम् एकवारमात्रम् उपयोग्यं कूटसंख्यां (OTP) प्रेषयित्वा इतोऽपि सुरक्षितव्यवहारः आश्रयते वित्तकोषादिभिः संस्थाभिः। रह...