*विवाहालोचनम्*
कन्यायाः दर्शनानन्तरं युवकः परिवारसमतं गृहं प्रत्यागच्छति स्म ।मार्गे एव कन्यागृहात् इमं विवाहं नेच्छाम इति सूचना प्राप्ता ।
युवकस्य माता - रे पूर्वपरिचितौ किल युवाम् ?
निमिषद्वयमेव अद्य सम्भाषणं जातम्। किमुक्तं त्वया ? अनुचितं किमपि ...... ?
नैव अम्ब! प्रकोष्ठे तस्याः पितुः चित्रं भित्तौ आसीत् सैनिकवेषे तं दृष्ट्वा पिता सेनाकार्यं देशे कुत्र कुत्र कृतवान् इत्येव पृष्टवान् नान्यथा।।
_अत्रान्तरे कन्यागृहे तस्याः पिता_
किमर्थम् अस्ययोग्यता नास्तीति उक्तवती त्वम्।
पितः! अद्यैव ज्ञातवती सः मूर्खशिरोमणिः इति
सुभाषचन्द्रबोस् महाशयमपि न जानाति सः !!
*द्विशतं कुतः*
_विवाहस्य अग्रिमे दिने पतिः पत्नीं प्रति।_
विद्यालये महाविद्यालये वा भवत्याः कृते कामुकः आसीत् किम् ?
एतत् श्रुत्वा सा अन्तः गत्वा एकं वेष्टनं (envelope) आनीय उक्तवती यदा अहम् कामुकं प्राप्नोमि स्म तदा अस्मिन् एकं तण्डुलकणं निक्षिपामि स्म ।।
सः झटिति गणनां कृत्वा ..... चिन्ता मास्तु केवलाः पञ्चतण्डुलकणाः एव तत्सर्वं स्वाभाविकम् अन्यथा न भावये । किञ्च अस्मिन् द्विशतरुप्यकाणि कथम् ?
मध्ये द्विवारं तण्डुलान् विक्रीतवती ।।
🤣🤣😂😂
Comments
Post a Comment